गुर्वष्टकम् - gurvaṣṭakaṃ

शरीरं सुरूपं तथा वा कलत्रं ।
यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥
śarīraṃ surūpaṃ tathā vā kalatraṃ, yaśaścāru citraṃ dhanaṃ meru tulyam |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 1 ||
कलत्रं धनं पुत्रपौत्रादि सर्वं ।
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥
kalatraṃ dhanaṃ putra pautrādisarvaṃ, gṛhaṃ bāndhavāḥ sarvametaddhi jātam |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 2 ||
षडङ्गादिवेदो मुखे शास्त्रविद्या ।
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥
ṣaḍaṅgādivedo mukhe śāstravidyā, kavitvādi gadyaṃ supadyaṃ karoti |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 3 ||
विदेशेषु मान्यः स्वदेशेषु धन्यः ।
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥
videśeṣu mānyaḥ svadeśeṣu dhanyaḥ, sadācāravṛtteṣu matto na cānyaḥ |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 4 ||
क्षमामण्डले भूपभूपालबृन्दैः ।
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥
kṣamāmaṇḍale bhūpabhūpalabṛndaiḥ, sadā sevitaṃ yasya pādāravindam |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 5 ||
यशो मे गतं दिक्षु दानप्रतापा-
ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥
yaśo me gataṃ dikṣu dānapratāpāt, jagadvastu sarvaṃ kare yatprasādāt |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 6 ||
न भोगे न योगे न वा वाजिराजौ ।
न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥
na bhoge na yoge na vā vājirājau, na kantāmukhe naiva vitteṣu cittam |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 7 ||
अरण्ये न वा स्वस्य गेहे न कार्ये ।
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥
araṇye na vā svasya gehe na kārye, na dehe mano vartate me tvanarghye |
manaścena lagnaṃ guroraṅghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 8 ||
गुरोरष्टकं यः पठेत्पुण्यदेही ।
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पदं ब्रह्मसञ्ज्ञं ।
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥
guroraṣṭakaṃ yaḥ paṭhetpurāyadehī, yatirbhūpatirbrahmacārī ca gehī |
labhedvāñchitārthaṃ padaṃ brahmasañjñaṃ, guroruktavākye mano yasya lagnaṃ || 9 ||